महाकालः

द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् एतत् महाकालमन्दिरम् इदानीन्तनमध्यप्रदेशस्य उज्जयिन्याम् अस्ति । उज्जयिनी इत्युक्ते विजयदायिनी इत्यर्थः । स्कन्दपुराणानुसारं भगवान् शङ्करः अत्रैव त्रिपुरासुरस्य संहारम् अकरोत् । पुराणेषु उज्जयिन्याः उल्लेखः बहुत्र दृश्यते । अशोकस्य शिलाशासनेषु एतत् नगरम् "उजेनी” इति उक्तम् अस्ति । कनकशृङ्गं, कुशस्थली, अवन्ती, पद्मावती, कुमुद्वती, अमरावती, विशाला इत्यादीनि अपि नामानि सन्ति उज्जयिन्याः । सप्त मोक्षदायकेषु नगरेषु अन्यतमम् एतत् उज्जयिनीनगरम् । परशिवः एव अत्र महाकालरूपेण स्थितः अस्ति । महाकालस्य माहात्म्यसम्बद्धाः अनेकाः कथाः सन्ति शैवपुराणे । उज्जयिन्यां सर्वस्य अपेक्षया प्रसिद्धं मन्दिरं महाकालमन्दिरम् एव । एतत् लिङ्गत्रये अन्यतमम् इति उच्यते । "आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम् । मृत्युलोके महाकालं लिङ्गत्रय नमोस्तुते ॥“ इति

अस्मिन् मन्दिरे आहत्य पञ्च अट्टाः सन्ति । तेषु एकः अट्टः भूम्याः अन्तः अस्ति । गर्भगृहस्य अन्तः प्रकाशः न भवति इत्यनेन सर्वदा तैलदीपः ज्वलन् भवति तत्र । नागपरिवेष्टितं महाकालस्य शिवलिङ्गं विशालम् अस्ति । एकधा देवाय अर्पितं पुष्पं पुनः न समर्प्यते कुत्रापि । किन्तु ज्योतिर्लिङ्गानां तथा नास्ति । एकधा अर्पितं बिल्वपत्रं प्रक्षाल्य पुनः अर्प्यते । शिवपुराणे महाकालसम्बद्धा काचित् कथा एवम् अस्ति – अवन्तीनगरे कश्चन धार्मिकः ब्राह्मणः वसति स्म । तस्य नगरस्य पार्श्वे रत्नमालानामकः गिरिः आसीत् । तत्र दूषणनामकः राक्षसः वसति स्म । सः राक्षसः अवन्तिनगरस्य जनान् सर्वदा पीडयति स्म । कदाचित् अवन्तीनगरस्थाः ब्राह्मणस्य समीपम् आगत्य अस्मान् रक्षतु इति प्रार्थितवन्तः । तदा ब्राह्मणः उग्रं तपः आचरत् । तपसा सन्तुष्टः शिवः भूमिं विदार्य बहिरागत्य राक्षससंहारम् अकरोत् । अनन्तरं भक्तानाम् इच्छानुसारं अवन्तिकायां महाकालरूपेण स्थितः । स्कन्दपुराणे एतत् क्षेत्रं "महाकालवनम्” इति एव निर्दिष्टम् अस्ति । एतदेकं सर्वोत्कृष्टं तीर्थम् इति वदति अग्निपुराणम् । उज्जयिन्यां महाकालस्य दर्शनेन अकालमृत्युः नश्यति, मुक्तिः अपि प्राप्यते इति ।

उज्जयिनी एकं शक्तिपीठम् अपि । अत्र सतीदेव्याः हस्तः पतितः इति । अतः सा एव अत्र माङ्गल्यचण्डिका इति नाम्ना निवसति । रुद्रसागरस्य समीपे विद्यमानं तस्याः मन्दिरं "हरसिद्धिमन्दिरम्” इति वदन्ति । स्कन्दपुराणे अस्य मन्दिरस्य विषये काचित् कथा अस्ति । कदाचित् शिवः पार्वती च द्यूतं क्रीडन्तौ आस्ताम् । तदा चण्ड-प्रचण्डनामकौ राक्षसौ आगत्य पीडयितुम् आरब्धवन्तौ । तयोः पीडनेन नन्दी अपि व्रणितः अभवत् । तदा शिवः तयोः दैत्ययोः संहारं करोतु इति पार्वतीम् अवदत् । तदा हरस्य इच्छानुगुणं सा अस्मिन् क्षेत्रे तयोः राक्षसयोः संहारम् अकरोत् इति । "हरसिद्धि”नाम्ना अवन्तिकाराजकुलस्य कुलदेवता अपि अस्ति सा । उज्जयिन्यां कश्चन प्राचीनः अक्षयवटवृक्षः अपि अस्ति । सर्वेऽपि यात्रिकाः अस्य वृक्षस्य दर्शनार्थम् आगच्छन्ति एव ।

एतत् वैदिकानां, बौद्धानां, जैनानां च प्रमुखं शिक्षणकेन्द्रं सत् ज्ञानविज्ञानयोः भूमिः आसीत् । ज्योतिष्कशिक्षणे भारते एव प्रसिद्धं केन्द्रम् उज्जयिनी । महाराजः जयसिंहः उज्जयिन्यां खगोलवीक्षणालयं निर्मितवान् । सः ज्योतिष्के अपि महान् पण्डितः आसीत् । उज्जयिनी भारतस्य "ग्रीनिच्” इति उच्यते । भूमध्यरेखायाः उपरि अस्ति उज्जयिनी । भारतीयखगोलशास्त्रज्ञानाम् अनुगुणम् एतत् नगरं शून्यरेखांशस्य उपरि स्थितम् अस्ति । भूमध्यरेखा-शून्यरेखांशयोः मेलनस्थाने एव महाकालः भूमिं विदार्य बहिरागतः इति विश्वस्यते । द्वादशवर्षेषु एकवारं गुरुग्रहस्य वृश्चिकराशिप्रवेशावसरे अत्र कुम्भमेला प्रवर्तते ।

भोपालनगरतः ११३ मैल् दूरे, इन्दोरतः ६० मैल् दूरे च क्षिप्रानद्याः तीरे अस्ति एतत् उज्जयिनीनगरम् । महाभारतस्य काले उज्जयिन्यां श्रेष्ठं गुरुकुलम् आसीत् । अत्रत्ये सान्दीपनी-आश्रमे एव कृष्ण बलरामौ मित्रेण सुधाम्ना सह अध्ययनम् अकुरुताम् । यादवकन्या राज्याधिदेव्याः विवाहः अवन्तिराजेन सह अभवत् तस्याः पुत्रौ विन्द-अनुविन्दनामकौ । तौ महाभारतयुद्धे द्वे अक्षोहिणी-सैन्यसहितं कौरवपक्षे स्थित्वा युद्धम् अकुरुताम् । अन्ते अर्जुनः एतौ अमारयत् । पाणिन्याः अष्टाध्याय्याम् उज्जयिन्याः उल्लेखः अस्ति । पतञ्जलेः महाभाष्ये अपि उज्जयिन्याः उल्लेखः अस्ति । भागवते योगिनितन्त्रे च अवन्त्याः वर्णनं कृतम् अस्ति ।

मौर्याणां काले मालवप्रदेशः मौर्यसाम्राज्यस्य कश्चन भागः आसीत् । सम्राट् अशोकः किञ्चित्कालं यावत् राजप्रतिनिधिरूपेण उज्जयिन्याम् आसीत् । अशोकस्य पट्टमहिषी श्रीदेवी उज्जयिन्याः कस्यचित् वणिजः पुत्री । तयोः पुत्रौ एव बौद्धधर्मस्य प्रचारार्थं विदेशं गतौ सङ्घमित्रमहेन्द्रौ । मौर्याणाम् अनन्तरं गन्धर्वसेनराजवंशीयाणां शासनम् आरब्धम् । अनन्तरं किञ्चित् कालं यावत् शकाः अपि अत्र शासनम् अकुर्वन् । अनन्तरं क्रि.पू. ५७तमे वर्षे विक्रमादित्यः शकान् पराजित्य उज्जयिनीं वशीकृतवान् । विक्रमस्य साहसानि “वेतालपञ्चविंशतिः” इत्यत्र वर्णितानि सन्ति । अस्य काले उज्जयिन्यां नवरत्नानि इति प्रसिद्धाः कवयः धन्वन्तरी, क्षपणकः, अमरसिंहः, शङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिर:, वररुचिः च, महान्तः वैद्याः, विज्ञानिनः, खगोलशास्त्रज्ञाः च आसन् । इतिहासप्रसिद्धः भोजराजः अपि धारानगरद्वारा उज्जयिन्याः शासनम् अकरोत् ।

प्रथमशतके मालवं वशीकृत्य शतकत्रयं यावत् शासनम् अकुर्वन् शकाः । अनन्तरं सम्राट् चन्द्रगुप्तविक्रमादित्यः शकान् पराजित्य मालवं गुप्तसाम्राज्ये अन्तर्भावयत् । गुप्तानां काले उज्जयिनी वैभवयुतां स्थितिं प्राप्नोत् । नवमशतकस्य अनन्तरं मालवस्य शासनं परमार्-वंशीयानां हस्तङ्गतम् । त्रयोदशशतकस्य अन्ते अल्लाविद्दीनः एतत् नगरं वशीकृतवान् । १५३१तः बहाद्दूरजनानां शासनम् आरब्धम् अत्र । १५७१तमे वर्षे अक्बरस्य सम्राज्यान्तर्गतम् । १७९२तमे वर्षे सिन्ध्यकुलीयाः एतत् नगरं वशीकृतवन्तः । १८१०तमे वर्षे तेषां राजधानी उज्जयिनीतः ज्वालियर् प्रति परिवर्तिता ।

भारतस्य राजकीयेतिहासे अपि अवन्त्याः महत् स्थानम् अस्ति । बुद्धस्य समकालीनस्य प्रद्योतस्य वंशीयानां पराक्रमतः मगधराजाः अपि भीताः आसन् । तेषाम् आक्रमणतः रक्षणार्थमेव अजातशत्रुः राजगृहं परितः सुदृढां महतीं भित्तिं निर्मितवान् । अवन्त्याः राजा प्रद्योतः बुद्धस्य जन्मदिने एव जन्म प्राप्तवान् । बुद्धस्य ज्ञानोदयानन्तरम् एव सिंहासनम् आरूढवान् । अस्य पुत्रीं वासवदत्तां वत्सराजः उदयनः अपहृत्य ऊढवान् । एषा घटना एव महाकवेः भासस्य “स्वप्नवासवदत्तम्” “प्रतिज्ञायौगन्धरायणम्” इति नाटकयोः रचनायाः प्रेरणा जाता ।

उज्जयिन्याम् अनेकानि दर्शनीयानि स्थानानि सन्ति । नगरस्य दक्षिणभागे जयसिंहेन निर्मितः खगोलविक्षणालयः अस्ति । क्षिप्रानद्याः तटे अनेके स्नानघट्टाः सन्ति । तत्र तत्र बहूनि सुन्दराणि मन्दिराणि सन्ति । महाकालमन्दिरस्य पुरोभागे कोटितीर्थनामिका पुष्करिणी अस्ति । कार्त्तिके, माघे, श्रावणे च मासे असंख्याकाः यत्रिकाः आगच्छन्ति अत्र । माघमासे प्रवर्तमानः महाकालस्य उत्सवः उज्जयिन्याः महान् उत्सवः । चित्रगुप्तमन्दिरं, कृष्णबलरामयोः मन्दिरं, सान्दीपनी-आश्रमः, भर्तृहरेः गुहा, नवग्रहमन्दिरं च दर्शनयोग्यानि सन्ति ।

Listed in the following categories:
Post a comment
Tips & Hints
Arrange By:
Manish Jinwal
8 February 2014
One of the 12 Jyotirlingas in India, the lingam at the Mahakala is believed to be swayambhu (born of itself) deriving currents of power shakti)
Ruchi Bhatnagar
12 February 2015
Avoid on Mondays and weekends. Best time to visit is early morning or late evenings when you can enjoy the calm.
Karan Dave
23 November 2013
One and the only shiva temple where you can pour your heart with milk....the only celestial time to be there in "Bhasma Aarti" morning 4:30 am
Priyanka Jain
29 August 2014
Best place evr.awsome superb fantastic mindblowing
Deepak Gupta
2 September 2014
Superb tempel of mahadev and what a atmosphere. ...... loving it
meghesh sharma
12 June 2014
If you have all things othere than mental peace then welcome to mahankaal ..... you will be blessed with peace...
Load more comments
foursquare.com
8.3/10
1,373,782 people have been here
Map
0.1km from Sri Vijaya Bala Hanuman Sannidhi, Jaisinghpura, Ujjain, Madhya Pradesh 456001, भारत Get directions
Sat 9:00 AM–7:00 PM
Sun 24 Hours
Mon 9:00 AM–2:00 PM
Tue 1:00 PM–5:00 PM
Wed 4:00 PM–6:00 PM
Thu 10:00 AM–11:00 AM

Mahakaleshwar Jyotirlinga on Foursquare

महाकालः on Facebook

Hotels nearby

See all hotels See all
Hotel Atlas Palace

starting $15

Hotel Kalpana Palace

starting $50

Hotel Muskan Palace

starting $20

Hotel Nakoda Palace

starting $30

Hotel Aamantran Avenue

starting $35

Hotel Mj

starting $11

Recommended sights nearby

See all See all
Add to wishlist
I've been here
Visited
उज्जैन

उज्जैन ( ( शृणु) ) (हिन्दी: उज्जैन, आङ्ग्ल: Ujjain) इत्

Add to wishlist
I've been here
Visited
माण्डु (माण्डवगढ)

मण्डुनगरं मध्ययुगे प्रसिद्धं नगरमासीत् । इदानीं मध्य

Add to wishlist
I've been here
Visited
बागगुहाः

बागगुहाःपूर्वं तावत् पाण्डवगुहाः इति विख्याताः आसन् । अनन्

Add to wishlist
I've been here
Visited
Upper Lake (Bhopal)

Upper Lake, (Hindi: बड़ा तालाब), is the largest artificial lake i

Add to wishlist
I've been here
Visited
भीमबेट्का-शिलाश्रयाः

भीमबेट्का (भीमबैठका) भारतस्य मध्यप्रदेराज्यस्य रायसेनम

Add to wishlist
I've been here
Visited
Hinglajgarh

Hinglajgarh (Hindi: हिंगलाजगढ़) or Hinglaj Fort (Hindi: हिंगलाज क़ि

Add to wishlist
I've been here
Visited
Asirgarh

Asirgarh Qila (Hindi: असीरगढ़ क़िला) is an Indian fortress (qila)

Similar tourist attractions

See all See all
Add to wishlist
I've been here
Visited
एलिफेण्टागुहाः

एलिफेण्टागुहाः भारतस्य मुम्बयीनगरस्य समीपे एलिफेण्टा इति द्वीपे

Add to wishlist
I've been here
Visited
विश्वेश्वरः

द्वादश ज्योतिर्लिङ

Add to wishlist
I've been here
Visited
अमरनाथः

अमरनाथः ( ( शृणु) ) (हिन्दी: अमरनाथ, आङ्ग्ल: Amarnath) हिन

Add to wishlist
I've been here
Visited
Chhatarpur Temple

The Chhatarpur Temple, formally known as Adya Katyayani temple, is the

Add to wishlist
I've been here
Visited
Santa Prisca

Santa Prisca is a basilica church in Rome, devoted to Saint Prisca, a

See all similar places