अमरनाथः

अमरनाथः( शृणु) ) (हिन्दी: अमरनाथ, आङ्ग्ल: Amarnath) हिन्दूनां पवित्रतमं तीर्थधाम अस्ति । भारतस्य जम्मूकाश्मीरराज्यस्य राजधान्याः श्रीनगरात् १४१ कि.मी. दूरे स्थितास्ति अमरनाथस्य गुहा । भगवतः शिवस्य हिमलिङ्गस्य प्राकृतिकरचना भवति गुहायाम् । अतः तस्य गुहायाः नाम अमरनाथस्य गुहा इति । 'बरफानि बाबा', 'अमरदेव' इत्यादिनामान्तराणि सन्ति अस्य देवस्य । गुहायां प्राकृतिकरीत्या पार्वती-गणेशप्रतिमयोरपि हिमेन रचना भवति । आषाढमासस्य पूर्णिमातः आरभ्य श्रावणमासस्य पूर्णिमापर्यन्तं यात्रायाः समयः अस्ति । तस्यां समयावधौ लक्षशः जनाः अमरनाथस्य दर्शनाय गच्छन्ति । क्लिष्टतमा एषा यात्रा भक्तानां मनोरथान् साधयति ।

गुहावर्णनम्

अमरनाथस्य गुहा षष्ठिः पादं (foot) यावत् लम्बमाना, त्रिंशत् पादं यावत् विस्तीर्णा, पञ्चदश पादं यावत् उत्तुङ्गा अस्ति । देश-विदेशयोः पुरातत्ववेत्तारः स्वमतं दातुम् असमर्थाः जाताः यत्, एषा गुहा प्रकृतेः अद्भुतकृतिः उत मानवस्य उत्तमकला इति । भक्तानां विश्वासः अस्ति यत्, समुद्रतटात् १२,७५६ पादं यावत् उत्तुङ्गा एषा गुहा शिव-प्रकृत्योः कृतिः अस्तीति । कारणं गुहायाः विषये शिव-शक्योः पौराणिकी कथा वर्तते । गुहां परितः हिमयुक्ताः पर्वताः सन्ति । परन्तु गुहा यस्य पर्वतस्य भागः अस्ति, तस्मिन् पर्वते हिमः न भवति इति तु कश्चन विशेष एव । अमरनाथगुहायाः पूर्वे स्थितस्य पर्वतस्याकारः गजाकारः अस्ति । अतः तस्य पर्वतस्य नाम 'हातीमान'-पर्वतः । गुहायाः उत्तरे स्थितस्य पर्वतस्य नाम नागापर्वतः इति । तस्य पर्वतस्योपरि सर्वदा हिमः दरीदृश्यते । पूर्वं गुहागमनाय योग्यः मार्गः नासीत्, सम्प्रति तु गुहां प्राप्तुं सुपथः अस्ति । तं पथम् उभयतः आरम्बणम् (Railing) अपि अस्ति ।

गुहान्वेषणम्

गुहायाः अन्वेषणम् इत्यनेन कोऽपि गुहाम् अन्विषन् गतवान्, पश्चात् तस्यान्वेषणस्य फलत्वेन गुहायाः ज्ञानम् अभवत् इति न, अपि तु भगवदिच्छया, अकस्मात् वा गुहायाः ज्ञानमभवदित्यर्थः गृह्यते । षोडशे शताब्दे 'मल्लिक'-नामकः कश्चन यवनगोपालकः अजान्वेषयन् पर्वतारोहणं प्रारभत । मार्गे श्रान्तः सः विश्रामोचितस्थलं मत्वा एकां गुहां प्राविशत । गुहायां किञ्चित् समयं यावत् स्थित्वा सः इतस्ततः दृष्टिम् अपातयत् । तत्र प्राकृतिकशिवलिङ्गम् अपश्यच्च । एतत् शिवलिङ्गमेव स्यात् इति सः अनुमानम् अकरोत् । ततः गृहं गत्वा सः तस्याः गुहायाः विषये ग्रामजनान् अकथयत् । ग्रामजनाः तस्य कथनं सत्यम् उत नेति परीक्षणाय तेन सह गुहाम् अगच्छन् । गुहां प्रविश्य सर्वेषां ज्ञानमभवत् यत्, एतत् तु शिवलिङ्गमेव इति । संशोधने कृते सति पुराणादिषु अमरनाथस्य उल्लेखः प्राप्तः । तस्याः गुहायाः उत्पत्तिविषये इतिहासे उल्लेखोऽपि प्राप्तः । एवं शिवलिङ्गस्य प्राप्तेः वार्तायाः प्रसारे सति गुहां प्रति असङ्ख्याकाः जनाः यात्रां प्रारभन्त । प्रतिवर्षं कोटिशः जनाः अमरदेवस्य दर्शनाय गच्छन्ति । अमरनाथस्य गुहाम् एकः यवनः अन्विष्टवान् इत्यतः अमरनाथाय यद्धनं भक्ताः ददति, तस्य धनस्य पञ्चविंशतिप्रतिशतं (चतुर्थांशं) धनं यवनेभ्यः ददाति सर्वकारः । गुहायाः दर्शनम् एक कि.मी. दूरादपि भवति । अतः यात्रायाम् आगतानां भक्तानां मनसि शिवदर्शनस्य ईप्सा वर्धते । वर्धितायाम् ईप्सायां भक्ताः अमरनाथो विजयतेतराम् इति घोषेण स्वभगवन्तं प्रति शीघ्रं गच्छन्ति ।

शिवलिङ्गम्

अमरनाथगुहायां स्वयम्भुवः शिवलिङ्गस्य दर्शनं भवति । गुहायाः छदिषः (छदि = Roof) जलबिन्दवः पतन्ति । ते जलबिन्दवः हिमरूपं धरन्ते, तत् हिमरूपं शिवलिङ्गाकारं भवति । शिवलिङ्गस्याकारः चन्द्रस्य कलानुसारं वर्धते, न्यूनयति च । प्रारम्भिके काले, सामान्यतः 'जून'-मासे शिवलिङ्गस्य यदा प्रप्रथमदर्शनं भवति, तदा षोडश-तः अष्टाविंशतिः पादं यावत् शिवलिङ्गाकारः भवति । ततः शैत्यं यदि वर्धते, तर्हि विंशति-तः द्वाविंशतिः पादं यावत् शिवलिङ्गाकारः भवति । शिवलिङ्गानुगुणं तत्र पार्वती-गणेशयोः प्रतिमायां वर्धनं, न्युनता च दरिदृश्यते । आश्चर्यस्य विषयोऽस्ति यत् "सामान्यतः हिमस्थलेषु द्रावितजलेन यदि हिमखण्डः भवति, तर्हि तं हिमखण्डं हस्तात् चूर्णं कर्तुं शक्नुमः, तावान् मृदुः भवति हिमखण्डः । परन्तु अमरनाथस्य शिवलिङ्गं दृढं भवति ।" शिवलिङ्गं यदा अदृश्यं भवति, तदा यात्रायाः अन्तः । किन्तु मान्यतास्ति यत्, गुहायां स्थितं कपोतयुगलं तत्रैव तिष्ठति इति ।

अमरनाथसल्लग्ना कथा

अमरनाथस्य पूजा कदा प्रारब्धा इति अनुमातुं न कोऽपि समर्थः । 'मल्लिक'-नामकयवनद्वारा यत् अन्वेषणं जातं, तत् तु समीपस्थे भूतकाले एवाभूत् । परन्तु पुराणेषु, इतिहासे च उल्लिखितमस्ति गुहाविषये येन ज्ञायते गुहायाः, अमरनाथस्य च प्रादुर्भावः बहु पुरातनः इति । अमरनाथेन, गुहया च सह सल्लग्नं कथाद्वयमस्ति ।

कपोतयुगलकथा

एकवारं पार्वती सदाशिवं प्रश्नम् अकरोत्, "भवान् अमरः अस्ति, अहं तु पुनः पुनः जन्ममृत्योः चक्रे भवामि । किमहम् अमरा भवितुं नार्हामि?" तदा शिवः अकथयत्, "अहम् एकां गुह्यतमाम् अमरकथां कथयामि । ताम् अमरकथां श्रृत्वा त्वमपि अमरा भविष्यसि" इति । कथायाः गोपनीयत्वात् गुह्यं स्थलम् आवश्यकम् आसीत् । कारणम् अन्यः कोऽपि इमां कथां यदि शृणोति, तर्हि सोऽपि अमरः भवति । अतः शिवः पार्वत्या सह हिमालयं प्रति यात्रां प्रारभत । कथां श्रावयितुं शिवः अत्युत्सुकः जातः । शिवस्य उत्साहे सति मार्गे भिन्नेषु स्थानेषु शिवस्य शरीराभूषणानि पतितानि । शिवाभूषणानि, लघवः अनन्तनागाः हिमालयस्य एकस्मिन् पर्वते पतिताः । अतः तस्य स्थलस्य नाम अनन्तनाग इति अभवत् । ललाटे धृतं चन्दनं यत्र पतितं तस्य पर्वतस्य नाम ‘चन्दनबाडी’ इति अभूत् । शिवस्य पादतले ये जन्तवः आसन्, ते यत्र पतिताः, तस्य स्थलस्य नाम ‘पिस्सू घाटी’ इति अभूत् । हिन्दीभाषायाः जन्तु-शब्दस्यार्थः ‘पिस्सू’ इति । शेषनागः यस्मिन् पर्वते पतितः, तस्य स्थलस्य नाम शेषनाग इति । तत्र एका नदी अपि अस्ति । तस्याः नद्याः नाम अपि शेषनाग इति एव । एतानि सर्वाणि स्थलानि अमरनाथयात्रायाः मार्गे सन्ति । कथाप्रारम्भात् पूर्वं गुहायां शिवः उक्तवान्, “पार्वति ! त्वं कथां शृणु, कथाश्रवणेन सह हँ हँ इति नादमपि कुरु येन त्वं कथां शृण्वन्ती असीति मम ज्ञानं भवति” इति । शिववचनं पार्वती अङ्गीकृतवती । पार्वती अर्धकथां श्रुत्वा निद्राधीना अभूत् । परन्तु हँ हँ इति नादस्तु न स्थगितः । कथाश्रावणे रतः शिवः हँ हँ इति नादं शृणोति स्म । अतः सः सम्पूर्णाम् अमरकथाम् अश्रावयत् । समाप्तायां कथायां शिवः अपश्यत्, पार्वती तु निद्राधीनास्ति, तथापि हँ हँ इति नादः कथं श्रूयते इति ध्यानस्थो भूत्वा सर्वं वृत्तान्तम् अजानीत सः । शिवपार्वत्यौ यस्यां गुहायां स्थितौ आस्तां, तस्यां गुहायाम् एकं कपोतयुगलमपि आसीत् । तत् युगलमपि कथां शृण्वन्नासीत् । कथायाः मध्ये यदा पार्वती निद्राधीना जाता, तदा कपोतयुगलं हँ हँ इति नादं प्रारभत । एवं तत् कपोतयुगलमपि पूर्णाम् अमरकथाम् अशृणोत् । अमरनाथगुहायाम् अद्यापि एकं कपोतयुगलम् दरीदृश्यते । अतः एका किंवदन्ती प्रचलितास्ति यत्, यत् कपोतयुगलम् अमरकथाम् अशृणोत् तदेव अमरं भूत्वा अद्यापि जीवदस्ति इति ।

शुकदेवकथा

कपोतयुगलस्य या कथा, सा एव शुकदेवकथा । एतावानेव भेदः शुकदेवकथायां कथाश्रोता शुकः । शिवः यदा अजानत् यत्, शुकः अमरकथाम् अशृणोत्, तदा शिवः तं मारयितुम् उद्युक्तः जातः । परन्तु शुकः वेदव्यासस्य पत्न्याः गर्भं प्राविशत । अतः शिवः किमपि कर्तुमसमर्थः जातः । प्रसवकालातीते सत्यपि शुकः गर्भात् न न्यर्गच्छत् । तेन वेदव्यासस्य पत्न्याः गर्भपीडा अत्यधिका अभवत् । अतः वेदव्यासः पत्न्याः पीडायाः निवारणाय ब्रह्मणः समीपं अगच्छत् । ब्रह्मा वेदव्यासं विष्णोः समीपम् अप्रेशयत्, विष्णुः तं शिवस्य समीपम् अप्रेशयत् च । सर्वे मिलित्वा गर्भात् बहिः निर्गमनाय गर्भस्थं शुकदेवं यदा अप्रार्थयन्, तदा शुकदेवः अकथयत्, "संसारस्तु मोहपाश एव । संसारस्य सर्वे जनाः निर्मोहिणः भवेयुः चेदेवाहं बहिः आगच्छामि" इति । एतच्छ्रुत्वा शिवः स्वशक्त्या संसारस्य सर्वान् जनान् यदा निर्मोहिणः अकरोत्, तदा शुकदेवः गर्भात् निर्गत्य साक्षात् वनं प्रति अगच्छत् ।

इतिहासः

अमरनाथस्य पूजा कदा प्रारब्धा इति अनुमातुं न कोऽपि समर्थः । परन्तु इतिहासे अमरनाथपूजायाः उल्लेखः प्राप्यते । ३०० BCE पूर्वं काश्मीरराज्यस्य आर्यराजनामकः कश्चन राजा स्वयम्भुवः हिमशिवलिङ्गस्य नित्यं पूजां करोति स्म । एतत् वर्णनं राजतरङ्गिणीनामके पुस्तके प्राप्यते । एकादशे शताब्दे उद्भूता सूर्यमतीनामिका राज्ञी अमरनाथस्य परमभक्ता आसीत् । एवं पुरातनेतिहासस्य ग्रन्थेषु अमरनाथस्येतिहासः प्राप्यते । यवनान्वेषणेन तु गुहायाः पुनः प्राप्तिः एव ।

अमरनाथयात्रा

अमरनाथयात्रा श्रावणमासस्य शुक्लपक्षस्य चतुर्थी-तः आरभ्यते । आभारतात् कोटिशः शिवभक्ताः यात्रायां भागं वहन्ति । यात्रायां भागम् ओढुं पञ्जीकरणम् आवश्यकम् । पञ्जीकरणपत्रं जालस्थानात्, पत्रालयात्, यात्राव्यवस्थापककार्यालयात् वा प्राप्यते । यात्रायै रुग्णाः, वृद्धाः, शिशवः च वर्ज्याः सन्ति । यात्रिकाणां स्वास्थ्यपरीक्षणं भवति । ततः पत्रमाध्यमेन सर्वकारात् अनुमतौ प्राप्ते सति सर्वे शिवभक्ताः श्रीनगरस्य 'दशनामी अखाडा' इत्यस्मिन् स्थाने एकीभवन्ति । तत्रापि पुनः स्वास्थ्यपरीक्षणं कृत्वा अग्रे यात्रायै अनुमतिं ददति वैद्याः । भक्तवृन्दे साधवः, सत्सङ्गिनः, पुरूषाः, स्त्रियः, बालकाः, किन्नराः च भवन्ति । यात्रामार्गे हिमाच्छादितपर्वताः, हिमाच्छादितमार्गाः, हिमाच्छादितनद्यः च भवन्ति । शैत्यत्वात् शितकाले ध्रियमाणानि वस्त्राणि आवश्यकानि तत्र । हिमाच्छादितमार्गेषु चलितुं यष्टिकायाः, हिमानुकूलपादत्राणयोरपि आवश्यकता भवति । कास-पीनसादिसामान्यरोगेभ्यः स्वानुकूला औषधिरपि आवश्यकी । पर्वतविस्तारे वायोः न्यूनता भवति । अतः श्वासक्रिया क्लिष्टकरा भवति । तस्य निवारणाय औषधिः नेतव्या । मार्गे प्रप्रथमं अनन्तनागनामकं नगरम् अस्ति । जम्मूकाश्मीरराज्यस्य मुख्यनगरेषु अन्यतममस्ति एतत् नगरम् । अत्र अलखनागनामकः जलपातः अस्ति । ततः मार्गे चन्दनबाडी-पहेलगाम-पिस्सूघाटी-कुट्टाघाटी-वायुजन-भैरवघाटी-अमरनाथघाटी-इत्यादिषु स्थलेषु दृश्यमानानि रमणीयानि प्राकृतिकदृश्यानि भक्तानां मनसि शिवानुरागं दृढीकुर्वन्ति ।

अमरनाथयात्राविषये किञ्चित्

<poem> • यात्रा त्रिंशत् कि.मी. परिमितास्ति । • तापमानम् ऋणपञ्च (-50C) डिग्री-पर्यन्तं भवति । परन्तु सूर्यातपः यदा भवति, तदा चर्मदग्धं भवेत् तथा आतापः भवति । अतः स्वास्थ्यस्य चिन्तनम् अधिकं करणीयं भवति । • यात्रायाः पूर्वं दशदिनानि यावत् पञ्च कि.मी. वेगेन चलनायाभ्यासः करणीयः । एवं कृते सति यात्राकाले श्रान्तता नानुभूयते । • वस्त्राणि, पादत्राणानि च उत्तमगुणवत्तायाः भवेयुः चेत् यात्रायां न्यूनाः विघ्नाः भवन्ति । • स्वास्थ्यसम्बद्धानि वस्तूनि स्वपार्श्वे स्थापनीयानि । यथा – 'वैसलीन, ग्लूकोज, डिस्पिरिन्, ईनो' इत्यादिनि । परन्तु स्थास्थ्यम् असम्यक् जाते सति वैद्यस्य समीपे एव गन्तव्यम् । स्वस्य पार्श्वे या औषधिः भवति, तस्याः औषध्याः उपयोगः अपि आपत्काले एव करणीयः । • यात्रायां दूरवाण्याः उपयोगः भवत्येव । अतः 'अमरनाथ श्राइन बोर्ड' संस्थया चतुर्दिनेभ्यः 'प्रीपेड सिम कार्ड' व्यवस्था कृतास्ति । एषा सेवा पञ्जीकरणकर्तॄणां लाभायास्ति । अमरनाथयात्रायै पञ्जीकरणं यैः न कृतं तेभ्यः एषा सेवा नास्ति । तत्र B.S.N.L संस्थायाः 'सिम' अपि चलति ।

</poem>

मार्गाः

विमानमार्गः

श्रीनगरान्ताराष्ट्रियविमानस्थानकं श्रीनगरात् चतुर्विंशतिः (२४) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, जम्मूकाश्मीरराज्यस्य अन्यनगरेभ्यः च श्रीनगरान्ताराष्ट्रियविमानस्थानकाय वायुयानानि सन्ति ।

'हेलिकोप्टर'सेवा

अमरनाथयात्रायै 'हेलिकोप्टर' व्यवस्थापि अस्ति । तस्याः सेवायाः आवश्यकतास्ति चेत् पूर्वं पञ्जीकरणम् आवश्यकम् । बालटाल-तः पञ्चतरणी-पर्यन्तं १५०० रूप्यकाणि, पहलगांव-तः पञ्चतरणी-पर्यन्तं २४०० रूप्यकाणि भवन्ति ।

धूमशकटमार्गः

भारतस्य, जम्मूकाश्मीरराज्यस्य च अन्यभागेभ्यः श्रीनगराय धूमशकटयानानि सन्ति । मुख्यतः मुम्बई-देहली-हैदराबाद-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः

भारतस्य, जम्मूकाश्मीरराज्यस्य च अन्यभागेभ्यः श्रीनगराय 'बस'यानानि सन्ति । मुख्यतः देहली-चण्डीगढ-हरिद्वारादिनगरेभ्यः श्रीनगराय 'बस'यानानि सन्ति । ततः पहलगांव, बालटाल इत्येताभ्यां नगराभ्यां 'बस'यानानि सन्ति । जम्मू-तः पहलगांव ३१५ कि.मी. दूरे, बालटाल ४०० कि.मी. दूरे अस्ति ।

यात्रामार्गः

प्रथममार्गः:- पहलगांव-तः १६ कि.मी. → चन्दनवाडी-तः ३ कि.मी. → पिस्सूटोप-तः ९ कि.मी. → शेषनाग-तः १२ कि.मी. → पञ्चतरणी-तः ६ कि.मी. → पवित्रगुहा ।

द्वितीयमार्गः:- बालटाल-तः २ कि.मी. → डोमेन-तः ५ कि.मी. → बरारीमार्ग-तः ४ कि.मी. → सङ्गम-तः ३ कि.मी. → पवित्रगुहा ।

सम्बद्धाः लेखाः

शिवः

पार्वती

मुस्लिम

बाह्यानुबन्धः

http://www.jktourism.org/amarnath-cave

http://www.shriamarnathjishrine.com/amarnath-shrine-board.html

http://www.amarnathyatra.org/

http://www.mapsofindia.com/maps/jammuandkashmir/amarnath-yatra-map.html

Listed in the following categories:
Post a comment
Tips & Hints
Arrange By:
Pandey Amar Prakash
17 July 2014
I enjoyed the Amarnathji trip, but I would like to share some bitter experience. The trip requires group of persons more than two, enough time & sufficient money. Bank ATM does not work at Sonmarg.
Pandey Amar Prakash
17 July 2014
Service providers like horse owners, Sledge owners torture enough to the couple who visit alone and charge any amount, so advice to go in group.
Load more comments
foursquare.com

Hotels nearby

See all hotels See all
Paradise Camping Resort

starting $46

Hotel Snow Land

starting $62

Hotel Tranquil Retreat

starting $146

Hotel Glacier Heights

starting $40

Imperial Resorts

starting $39

Nature Camps Resort

starting $64

Recommended sights nearby

See all See all
Add to wishlist
I've been here
Visited
Pahalgam Historical Cave

Pahalgam Historical Cave is a tourist attraction, one of the Caves in

Add to wishlist
I've been here
Visited
Skardu Fort

Skardu Fort or Karpachu Fort is a fort in Skardu city in Northern

Add to wishlist
I've been here
Visited
Khaplu Palace

Khaplu Palace (اردو. Шаблон:Nastaliq; bft. Шаблон:Na

Add to wishlist
I've been here
Visited
Nanga Parbat

Nanga Parbat (Urdu: نانگا پربت) is the ninth highest mountain on Earth

Add to wishlist
I've been here
Visited
Bahu Fort

The Bahu Fort is located in Jammu city in the Indian state of Jammu

Add to wishlist
I've been here
Visited
Kohala Bridge

The Kohala Bridge across the Jhelum River, a tributary of the Indus,

Add to wishlist
I've been here
Visited
Muzaffarabad Fort

Muzaffarabad Fort - there are two historical forts on opposite sides

Add to wishlist
I've been here
Visited
Makra Peak

Makra is a scenic peak in the Hazara region of the Himalayas in

Similar tourist attractions

See all See all
Add to wishlist
I've been here
Visited
महाकालः

द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् एतत् महाकालमन्दिरम् इदानीन्तनमध्यप

Add to wishlist
I've been here
Visited
एलिफेण्टागुहाः

एलिफेण्टागुहाः भारतस्य मुम्बयीनगरस्य समीपे एलिफेण्टा इति द्वीपे

Add to wishlist
I've been here
Visited
विश्वेश्वरः

द्वादश ज्योतिर्लिङ

Add to wishlist
I've been here
Visited
Chhatarpur Temple

The Chhatarpur Temple, formally known as Adya Katyayani temple, is the

Add to wishlist
I've been here
Visited
Santa Prisca

Santa Prisca is a basilica church in Rome, devoted to Saint Prisca, a

See all similar places