हिरोशिमा शान्तिस्मारकम् ( ( शृणु) ) (हिन्दी: हिरोशिमा शान्तिस्मारक, आङ्ग्ल: Hiroshima peace memorial) उत अणुविस्फोटस्तूपः उत 'गेन्बाकु डोम' जपान-देशस्य हिरोशिमा-महानगरे स्थितस्य प्रख्यातशान्तिस्मारकस्य उद्यानभागोऽस्ति । १९९६ तमे वर्षे एतत् स्मारकं युनेस्को-संस्थया विश्वसम्पत्त्वेन घोषितम् । १९४५ तमस्य वर्षस्य अगस्त-मासस्य षष्ठे दिनाङ्के हिरोशिमा, नागाशाकी इत्यतयोः नगरयोः अणुविस्फोटकप्रहारेण मृतानां जनानां स्मारकत्वेन एतस्य भवनस्य संरक्षणं कृतम् अस्ति । तस्मिन् अणुविस्फोटकप्रहारे ७०,००० नागरिकाः मृताः, प्रहारोत्तरञ्च किरणोत्तसारस्य कारणेन अन्ये ७०,००० नागरिकाः प्राणघातकरोगेण ग्रसिताः ।
उत्पादनप्रदर्शनखण्डस्य (Product Exhibition Hall) मूलरचनायाः परिकल्पकः चेक-वास्तुशास्त्री जन लेट्झेल इत्येषः आसीत् । चेक-रचनानुगुणम् एतस्य भवनस्य सर्वोच्चे स्थाने विशालस्तूपस्य स्थापना कृता आसीत् । एतस्य भवनस्य निर्माणकार्यं १९१५ तमस्य वर्षस्य अप्रैल-मासे पूर्णम् अभवत् । "हिरोशिमा प्रीफेक्ट्रल कमर्शीय अक्झेबिशन" (HMI) इति निर्माणोत्तरं तद्भवनस्य नामकरणम् अभवत् । तस्मिन्नेव वर्षे अगस्त-मासे सामान्यनागरिकेभ्यः उद्घाटितम् । १९२१ तमे वर्षे तस्य भवनस्य नाम परिवर्त्य "हिरोशिमा प्रीफेक्ट्रल प्रोडक्ट्स् एक्झिबिशन् हॉल्" इति अभवत् । १९३३ तमे वर्षे पुनः तस्य भवनस्य नवीननामकरणं "हिरोशिमा प्रीफेक्ट्रल इन्डस्ट्रेयल् प्रोमोशनल् हॉल्" इति कृतम् । एतस्य भवनस्य समीपे आईओई इत्याख्यः सेतुः आसीत्, यस्योपयोगः कलायाः, सांस्कृतिककार्यक्रमाणां च प्रदर्शने भवति स्म ।
अणुविस्फोटस्थानस्य समीपे एकमात्रम् एतद्भवनम् एव अवशिष्टम् आसीत् । एतस्य भवनस्य स्तूपान्तर्भागः प्रत्यक्षतया दर्शने सति सः स्तूपः विस्फोटकाकारवत् दरीदृश्यते स्म । अतः तस्य भवनस्य नाम 'गेन्बाकु' अर्थात् अग्निगोलकः (A bomb) इति अभवत् । विस्फोटोत्तरं तस्य भवनस्य पातनकार्यं सर्वकारेण आरब्धम् । परन्तु तस्य भवनस्य विशालभागः अणुविस्फोटके सत्यपि सुरक्षितः आसीत् । अतः तस्य भवनस्य पातनकार्याय विलम्बः अभवत् । तस्मिन् कालखण्डे सः स्तूपः विवादकेन्द्रम् अपि अभवत् । किञ्च केचन नागरिकाः तस्य स्तूपस्य पतनम् इच्छन्ति स्म परन्तु अन्ये अणुविस्फोटस्य स्मारकत्वेन तस्य स्तूपस्य रक्षणम् इच्छन्ति स्म । अन्ततो गत्वा हिरोशिमा-नगरस्य पुनर्निर्माणस्य आरम्भोत्तरं "तत् भवनं रक्षणीयम्" इति निर्णयः अभवत् ।
१९५०-१९६४ मध्ये एतद्भवनं परितः हिरोशिमा-शान्त्युद्यानस्य निर्माणम् अभवत् । १९६६ तमे वर्षे हिरोशिमा-नगरस्य शासनतन्त्रेण उद्घोषितं यत्, एतस्य भवनस्य संरक्षणं करिष्यामः तथा च तद्भवनस्य नाम इतः परं "हिरोशिमा-शान्तिस्मारकम्" (गेन्बाकु डोम) इति भविष्यति । सः स्तूपः उद्यानस्य प्रमुखं सीमिचिह्नम् अस्ति ।
१९४५ तमस्य वर्षस्य जुलाई-मासस्य पञ्चविंशतितमे दिनाङ्के प्रशान्तक्षेत्रे नियुक्तः अमेरिका-देशीयः व्यूहात्मकवायुसेनाध्यक्षः कार्ल स्पार्ट्झ इत्येषः जपान-देशस्य मुख्यनगरेषु 'विशिष्टविस्फोटकक्षेपणस्य' आदेशं प्रापत् । । विस्फोटकस्य घाताय प्रप्रथमस्थलत्वेन हिरोशिमा-नगरस्य चयनम् अभवत् । यतः तन्नगरं दक्षिणे स्थितस्य होन्शी-द्वीपस्य बृहत्तमं नगरम् आसीत् । तन्नगरे जपान-देशस्य उपसेनाध्यक्षस्य कार्यालयः आसीत् । तस्मिन् कार्यालये ४०,००० सैनिकाः अपि आसन् ।
सः अणुस्फोटकः अतीव गुप्ततया निर्मितः आसीत् । तस्मिन् स्फोटके 'युरेनियम्' इत्याख्यस्य पदार्थस्य २३५ वल्लर्यः आसन् । तासु वल्लरीषु शतशः किलो 'सिसा' इत्याख्यः धातुः पूरितः आसीत् । एवम् अणुविस्फोटकस्य शक्तिः १२,५०० टन् टी. एन. टी. यावत् अभवत् । १९४५ तमस्य वर्षस्य अगस्त-मासस्य षष्ठे दिनाङ्के स्थानीयसमयानुसारं प्रातः (८:१५) सपादाष्टवादने अमेरिकासंयुक्तराज्यस्य वायुसेनया 'इलोना गे' इत्याख्यात् बी-२९ विमानात् 'लिटल बॉय' इत्याख्यः अणुविस्फोटकः हिरोशिमा-नगरस्योपरि क्षिप्तः । तेन अणुविस्फोटकेन हिरोशिमा-नगरस्य अस्तित्वम् एव लुप्तम् अभवत् । सः विस्फोटकः निर्धारितात् लक्ष्याङ्कात् २५० मीटर दूरे अपतत् । सः ४३ निमेषेषु नगरे विस्फोटम् अकरोत् । विस्फोटकस्य लक्ष्यं एईओल्-आख्यः सेतुः आसीत्, परन्तु सः विस्फोटकः साक्षात् कस्मिँश्चित् रुग्णालयस्योपरि अपतत् । रुग्णालयभवनस्योपरि साक्षात् पतितः सः विस्फोटकः अलिन्दात् साक्षात् भूमौ प्रविष्टः । अलिन्दात् भूमौ प्रविष्टः सः विस्फोटकः १५० मी. गह्वरं प्रविष्य ६०० मीटर चलितः अभवत् । हिरोशिमा-शान्तिस्मारकं तस्मात् स्थानात् १६० मीटर दूरे स्थितम् अस्ति एतस्मिन् भवने विद्यमानाः नागरिकाः तत्क्षणं मृत्युङ्गताः ।
युद्धोत्तरम् तस्य भवनस्य अवशेषानां विदारणं जायमानम् आसीत् । हिरोशिमा-नगरस्य अध्यक्षत्वेन (मेयर) चितः शिग्हो हमाई (१९०५-१९६८) इत्येषः स्मारकं निर्मितुं धनसङ्ग्रहम् अकरोत् । ततः १९६६ तमे वर्षे हिरोशिमा-नगरपालिकया स्मारकत्वेन एतस्य भवनस्य घोषणा कृत्वा नूतननाम 'गेन्बाकु' इति स्थापितम् । परन्तु धनसङ्ग्रहस्य अधिकावश्यकतात्वात् धनसङ्ग्रहः कार्यक्रमः १९६७ तमे वर्षे पूर्णम् अभवत् । बहुधा तु सः नगराध्यक्षकः स्वयं वीथीषु गत्वा धनदानं कर्तुं सर्वान् प्रेरयति स्म । जर्जरितभवनस्य संरक्षणार्थं १९८९-१९९० मध्ये अत्र लघुनिर्माणकार्यम् अपि अभवत् । तद्भवनं विस्फोटोत्तरं यथा आसीत्, तथैव संरक्षितम् अस्ति । यत्र काचित् अधिका हानिः जाता आसीत्, तस्य पुनर्निर्माणं कृत्वा संरक्षितम् अस्ति । अतः विस्फोटकाले भवनं यथा आसीत्, तथैव सर्वम् अस्ति ।
युनेस्को-संस्थायां विश्वस्य सांस्कृतिसम्पदः, प्राकृतिकसम्पदः च संरक्षणाय अधिनियमः १९९६ तमस्य वर्षस्य दिसम्बरमासे उत्तीर्णः अभवत् । तस्य अधिनियमस्य अन्तर्गततया एतत् स्थलं वैश्विकसम्पत्त्वेन युनेस्को-सूचिकायां स्थानम् अलभत । मुख्यत्रीणाम् अंशानाम् आधारेण एतत् तस्यां सूचिकायां स्थानम् उपलभ्यत ।
चीन-अमेरिका-देशौ एतत् स्मारकं वैश्विकसम्पत्त्वेन अङ्गीकर्तुं विरोधम् अकुरुताम् । चीन-देशस्य तर्कः आसीत् यत्, जपान-देशेन अन्यदेशेषु कृतः प्रहारः गौणः भविष्यति यदि एतस्य वैश्विकसम्पत्त्वेन घोषणा भवति इति । युद्धस्मारकस्य ऐतिहासिकसन्दर्भस्य उपेक्षा भविष्यति इति उक्त्वा अमेरिका-देशीयाः प्रतिनिधयः निर्णयप्रक्रियायाम् अपि भागः न अवहन् ।